७.८५.१४

दीयमानं सुवर्णं तन्नागृह्णीतां कुशीलवौ ।
ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥

पदच्छेदः

दीयमानंदीयमान (√दा + शानच्, २.१)
सुवर्णंसुवर्ण (२.१)
तन्नागृह्णीतांतद् (२.१)–न (अव्ययः)–अगृह्णीताम् (√ग्रह् लङ् प्र.पु. द्वि.)
कुशीलवौकुशीलव (१.२)
ऊचतुश्चऊचतुः (√वच् लिट् प्र.पु. द्वि.)–च (अव्ययः)
महात्मानौमहात्मन् (१.२)
किम् (१.१)
अनेनेतिइदम् (३.१)–इति (अव्ययः)
विस्मितौविस्मित (√वि-स्मि + क्त, १.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दी मा नंसु र्णं
न्ना गृ ह्णी तांकु शी वौ
तुश्च हा त्मा नौ
कि ने नेति विस्मि तौ