७.८५.९

तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम् ।
गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ॥

पदच्छेदः

तेषांतद् (६.३)
संवदताम्संवदत् (√सम्-वद् + शतृ, ६.३)
एवंएवम् (अव्ययः)
श्रोतॄणांश्रोतृ (६.३)
हर्षवर्धनम्हर्ष–वर्धन (२.१)
गेयंगेय (२.१)
प्रचक्रतुस्तत्रप्रचक्रतुः (√प्र-कृ लिट् प्र.पु. द्वि.)–तत्र (अव्ययः)
तावुभौतद् (१.२)–उभ् (१.२)
मुनिदारकौमुनि–दारक (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते षां सं ता मे वं
श्रो तॄ णांर्षर्ध नम्
गे यंप्रक्र तु स्तत्र
तावु भौमुनि दा कौ