७.८५.१०

ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ।
न च तृप्तिं ययुः सर्वे श्रोतारो गेयसम्पदा ॥

पदच्छेदः

ततःततस् (अव्ययः)
प्रवृत्तंप्रवृत्त (√प्र-वृत् + क्त, १.१)
मधुरंमधुर (१.१)
गान्धर्वम्गान्धर्व (१.१)
अतिमानुषम्अतिमानुष (१.१)
(अव्ययः)
(अव्ययः)
तृप्तिंतृप्ति (२.१)
ययुःययुः (√या लिट् प्र.पु. बहु.)
सर्वेसर्व (१.३)
श्रोतारोश्रोतृ (१.३)
गेयसंपदागेय–सम्पद् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःप्र वृ त्तंधु रं
गा न्धर्वति मानु षम्
तृ प्तिं युः र्वे
श्रो ता रो गेम्प दा