७.८६.१

रामो बहून्यहान्येव तद्गीतं परमाद्भुतम् ।
शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः ॥

M N Dutt

Rāma heard that highly sacred theme for many long days in the company of ascetics, kings and Vänaras.

पदच्छेदः

रामोराम (१.१)
बहून्यहान्येवबहु (२.३)–अहर् (२.३)–एव (अव्ययः)
तद्तद् (२.१)
गीतंगीत (√गा + क्त, २.१)
परमाद्भुतम्परम–अद्भुत (२.१)
शुश्रावशुश्राव (√श्रु लिट् प्र.पु. एक.)
मुनिभिःमुनि (३.३)
सार्धंसार्धम् (अव्ययः)
राजभिःराजन् (३.३)
सहसह (अव्ययः)
वानरैःवानर (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा मो हून्य हा न्ये
द्गी तं माद्भु तम्
शु श्रामुनि भिः सा र्धं
रा भिः वा रैः