७.८६.७

श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् ।
दूताः संप्रययुर्वाटं यत्रास्ते मुनिपुंगवः ॥

पदच्छेदः

श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
तुतु (अव्ययः)
राघवस्यैतद्राघव (६.१)–एतद् (२.१)
वचःवचस् (२.१)
परमम्परम (२.१)
अद्भुतम्अद्भुत (२.१)
दूताःदूत (१.३)
सम्प्रययुर्सम्प्रययुः (√सम्प्र-या लिट् प्र.पु. बहु.)
वाटंवाट (२.१)
यत्रास्तेयत्र (अव्ययः)–आस्ते (√आस् लट् प्र.पु. एक.)
मुनिपुंगवःमुनि–पुंगव (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रु त्वातु रा स्यै
द्व चःद्भु तम्
दू ताः संप्र यु र्वा टं
त्रा स्तेमुनि पुं वः