७.८७.१०

तां दृष्ट्वा श्रीमिवायान्तीं ब्रह्माणमनुगामिनीम् ।
वाल्मीकेः पृष्ठतः सीतां साधुकारो महानभूत् ॥

M N Dutt

With her face downwards, folded palms, eyes full of tears and meditating upon Råma in her mind, Sita, following the Rsis, came before the assembly. There arose a great uproar of eulogy from the assembly when they saw Sità following Vālmīki like to the Śruti following Brahmā.

पदच्छेदः

तांतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
श्रीम्श्री (२.१)
इवायान्तींइव (अव्ययः)–आयान्त् (√आ-या + शतृ, २.१)
ब्रह्माणम्ब्रह्मन् (२.१)
अनुगामिनीम्अनुगामिन् (२.१)
वाल्मीकेःवाल्मीकि (६.१)
पृष्ठतःपृष्ठतस् (अव्ययः)
सीतांसीता (२.१)
साधुकारोसाधु–कार (१.१)
महान्महत् (१.१)
अभूत्अभूत् (√भू प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तां दृ ष्ट्वा श्रीमि वा या न्तीं
ब्र ह्मानु गामि नीम्
वा ल्मी केः पृष्ठ तः सी तां
साधु का रो हा भूत्