७.८७.११

ततो हलहलाशब्दः सर्वेषामेवमाबभौ ।
दुःखजेन विशालेन शोकेनाकुलितात्मनाम् ॥

पदच्छेदः

ततोततस् (अव्ययः)
हलहलाहलहला (अव्ययः)
शब्दःशब्द (१.१)
सर्वेषाम्सर्व (६.३)
एवम्एवम् (अव्ययः)
आबभौआबभौ (√आ-भा लिट् प्र.पु. एक.)
दुःखजेनदुःख–ज (३.१)
विशालेनविशाल (३.१)
शोकेनाकुलितात्मनाम्शोक (३.१)–आकुलित–आत्मन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो ला ब्दः
र्वे षा मे मा भौ
दुः जेवि शा ले
शो के नाकुलि तात्म नाम्