७.८७.४

भार्गवश्च्यवनश्चैव शतानन्दश्च धर्मवित् ।
भरद्वाजश्च तेजस्वी अग्निपुत्रश्च सुप्रभः ॥

पदच्छेदः

भार्गवश्च्यवनश्चैवभार्गव (१.१)–च्यवन (१.१)–च (अव्ययः)–एव (अव्ययः)
शतानन्दश्चशतानन्द (१.१)–च (अव्ययः)
धर्मवित्धर्म–विद् (१.१)
भरद्वाजश्चभरद्वाज (१.१)–च (अव्ययः)
तेजस्वीतेजस्विन् (१.१)
अग्निपुत्रश्चअग्नि–पुत्र (१.१)–च (अव्ययः)
सुप्रभःसु (अव्ययः)–प्रभा (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भार्गश्च्य श्चै
ता न्दश्चर्म वित्
द्वाश्च ते स्वी
ग्नि पु त्रश्च सुप्र भः