७.८७.७

क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव सहस्रशः ।
सीताशपथवीक्षार्थं सर्व एव समागताः ॥

पदच्छेदः

क्षत्रियाश्चैवक्षत्रिय (१.३)–च (अव्ययः)–एव (अव्ययः)
वैश्याश्चवैश्य (१.३)–च (अव्ययः)
शूद्राश्चैवशूद्र (१.३)–च (अव्ययः)–एव (अव्ययः)
सहस्रशःसहस्रशस् (अव्ययः)
सीताशपथवीक्षार्थंसीता–शपथ–वीक्षा–अर्थ (२.१)
सर्वसर्व (१.३)
एवएव (अव्ययः)
समागताःसमागत (√समा-गम् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षत्रि या श्चै वै श्याश्च
शू द्रा श्चैस्र शः
सी ता वी क्षा र्थं
र्व मा ताः