७.९.१८

दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ।
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ॥

पदच्छेदः

दारुणान्दारुण (२.३)
दारुणाकारान्दारुण–आकार (२.३)
दारुणाभिजनप्रियान्दारुण–अभिजन–प्रिय (२.३)
प्रसविष्यसिप्रसविष्यसि (√प्र-सू लृट् म.पु. )
सुश्रोणिसु (अव्ययः)–श्रोणी (८.१)
राक्षसान्राक्षस (२.३)
क्रूरकर्मणःक्रूर–कर्मन् (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दारु णा न्दारु णा का रा
न्दारु णाभिप्रि यान्
प्र विष्यसि सु श्रोणि
राक्ष सा न्क्रूर्म णः