७.९.३०

विभीषणस्तु धर्मात्मा नित्यं धर्मपथे स्थितः ।
स्वाध्यायनियताहार उवास नियतेन्द्रियः ॥

M N Dutt

But the righteous Vibhișana, ever intent on piety, dwelt there studying the Veda, restraining his fare, and controlling his senses.

पदच्छेदः

विभीषणस्तुविभीषण (१.१)–तु (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
नित्यंनित्यम् (अव्ययः)
धर्मपथेधर्म–पथ (७.१)
स्थितःस्थित (√स्था + क्त, १.१)
स्वाध्यायनियताहारस्वाध्याय–नियत (√नि-यम् + क्त)–आहार (१.१)
उवासउवास (√वस् लिट् प्र.पु. एक.)
नियतेन्द्रियःनियत (√नि-यम् + क्त)–इन्द्रिय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि भीस्तु र्मा त्मा
नि त्यंर्म थेस्थि तः
स्वा ध्यानि ता हा
वानि तेन्द्रि यः