७.९.४

पुत्रि प्रदानकालोऽयं यौवनं तेऽतिवर्तते ।
त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः ॥

पदच्छेदः

पुत्रिपुत्री (८.१)
प्रदानकालोप्रदान–काल (१.१)
ऽयंइदम् (१.१)
यौवनंयौवन (१.१)
तेत्वद् (६.१)
ऽतिवर्ततेअतिवर्तते (√अति-वृत् लट् प्र.पु. एक.)
त्वत्कृतेत्वद्–कृत (७.१)
(अव्ययः)
वयंमद् (१.३)
सर्वेसर्व (१.३)
यन्त्रितायन्त्रित (√यन्त्रय् + क्त, १.३)
धर्मबुद्धयःधर्म–बुद्धि (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु त्रिप्र दा का लो ऽयं
यौ नं तेऽतिर्त ते
त्वत्कृ ते यं र्वे
न्त्रि तार्म बुद्ध यः