७.९०.१

कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः ।
स्वगुरुं प्रेषयामास राघवाय महात्मने ॥

पदच्छेदः

कस्यचित्त्वथकश्चित् (६.१)–तु (अव्ययः)–अथ (अव्ययः)
कालस्यकाल (६.१)
युधाजित्युधाजित् (१.१)
केकयोकेकय (१.१)
नृपःनृप (१.१)
स्वगुरुंस्व–गुरु (२.१)
प्रेषयामासप्रेषयामास (√प्र-इषय् प्र.पु. एक.)
राघवायराघव (४.१)
महात्मनेमहात्मन् (४.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य चित्त्व कास्य
यु धा जि त्के योनृ पः
स्वगु रुं प्रे या मा
रा वा हात्म ने