७.९०.४

श्रुत्वा तु राघवो गार्ग्यं महर्षिं समुपागतम् ।
मातुलस्याश्वपतिनः प्रियं दूतमुपागतम् ॥

पदच्छेदः

श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
तुतु (अव्ययः)
राघवोराघव (१.१)
गार्ग्यंगार्ग्य (२.१)
महर्षिंमहत्–ऋषि (२.१)
समुपागतम्समुपागत (√समुपा-गम् + क्त, २.१)
मातुलस्याश्वपतिनःमातुल (६.१)–अश्वपति (६.१)
प्रियंप्रिय (२.१)
दूतम्दूत (२.१)
उपागतम्उपागत (√उपा-गम् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रु त्वातु रा वो गा र्ग्यं
र्षिंमु पा तम्
मातु स्याश्वति नः
प्रि यं दूमु पा तम्