७.९०.५

प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुगः ।
गार्ग्यं संपूजयामास धनं तत्प्रतिगृह्य च ॥

पदच्छेदः

प्रत्युद्गम्यप्रत्युद्गम्य (√प्रत्युत्-गम् + ल्यप्)
(अव्ययः)
काकुत्स्थःकाकुत्स्थ (१.१)
क्रोशमात्रंक्रोश–मात्र (२.१)
सहानुगःसह (अव्ययः)–अनुग (१.१)
गार्ग्यंगार्ग्य (२.१)
संपूजयामाससंपूजयामास (√सम्-पूजय् प्र.पु. एक.)
धनंधन (२.१)
तत्तद् (२.१)
प्रतिगृह्यप्रतिगृह्य (√प्रति-ग्रह् + ल्यप्)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र त्यु द्गम्य का कु त्स्थः
क्रो मा त्रं हानु गः
गा र्ग्यं सं पू या मा
नंत्प्रति गृह्य