७.९१.२

स निर्ययौ जनौघेन महता केकयाधिपः ।
त्वरमाणोऽभिचक्राम गन्धर्वान्देवरूपिणः ॥

M N Dutt

He, the king of Kekaya, with a huge army they speedily went out for conquering the Gandharvas.

पदच्छेदः

तद् (१.१)
निर्ययौनिर्ययौ (√निः-या लिट् प्र.पु. एक.)
जनौघेनजन–ओघ (३.१)
महतामहत् (३.१)
केकयाधिपःकेकय–अधिप (१.१)
त्वरमाणोत्वरमाण (√त्वर् + शानच्, १.१)
ऽभिचक्रामअभिचक्राम (√अभि-क्रम् लिट् प्र.पु. एक.)
गन्धर्वान्गन्धर्व (२.३)
देवरूपिणःदेव–रूपिन् (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

निर्य यौ नौ घे
ता के याधि पः
त्व मा णोऽभि क्रा
न्ध र्वा न्दे रूपि णः