७.९१.६

ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् ।
संवर्तं नाम भरतो गन्धर्वेष्वभ्ययोजयत् ॥

M N Dutt

There upon enraged Bharata, Rāma's younger brother, discharged a dreadful arrow named Samvarata resembling the fire of dissolution against Gandharvas.

पदच्छेदः

ततोततस् (अव्ययः)
रामानुजःरामानुज (१.१)
क्रुद्धःक्रुद्ध (√क्रुध् + क्त, १.१)
कालस्यास्त्रंकाल (६.१)–अस्त्र (२.१)
सुदारुणम्सु (अव्ययः)–दारुण (२.१)
संवर्तंसंवर्त (२.१)
नामनाम (अव्ययः)
भरतोभरत (१.१)
गन्धर्वेष्वभ्ययोजयत्गन्धर्व (७.३)–अभ्ययोजयत् (√अभि-योजय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो रा मानु जः क्रु द्धः
का स्या स्त्रंसु दारु णम्
सं र्तं ना तो
न्ध र्वे ष्वभ्य यो यत्