७.९२.११

अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौ ।
अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् ॥

पदच्छेदः

अभिषिच्यअभिषिच्य (√अभि-सिच् + ल्यप्)
कुमारौकुमार (२.२)
द्वौद्वि (२.२)
प्रस्थाप्यप्रस्थाप्य (√प्र-स्थापय् + ल्यप्)
सबलानुगौ (अव्ययः)–बल–अनुग (२.२)
अङ्गदंअङ्गद (२.१)
पश्चिमांपश्चिम (२.१)
भूमिंभूमि (२.१)
चन्द्रकेतुम्चन्द्रकेतु (२.१)
उदङ्मुखम्उदङ्मुख (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भि षिच्यकु मा रौ द्वौ
प्र स्थाप्य लानु गौ
ङ्ग दंश्चि मां भू मिं
न्द्र केतुमुङ्मु खम्