७.९२.१२

अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह ।
चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह ॥

पदच्छेदः

अङ्गदंअङ्गद (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
सौमित्रिर्सौमित्रि (१.१)
लक्ष्मणोलक्ष्मण (१.१)
ऽनुजगामअनुजगाम (√अनु-गम् लिट् प्र.पु. एक.)
(अव्ययः)
चन्द्रकेतोस्तुचन्द्रकेतु (६.१)–तु (अव्ययः)
भरतःभरत (१.१)
पार्ष्णिग्राहोपार्ष्णिग्राह (१.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ङ्ग दं चापि सौ मित्रि
र्लक्ष्म णोऽनु गा
न्द्र के तोस्तु तः
पा र्ष्णि ग्रा हो भू