७.९२.२

इमौ कुमारौ सौमित्रे तव धर्मविशारदौ ।
अङ्गदश्चन्द्रकेतुश्च राज्यार्हौ दृढधन्विनौ ॥

M N Dutt

O Saumitri, your two sons, Angada and Candraketu well-versed in religions, perfectly qualified in governing the kingdom and highly powerful.

पदच्छेदः

इमौइदम् (१.२)
कुमारौकुमार (१.२)
सौमित्रेसौमित्रि (८.१)
तवत्वद् (६.१)
धर्मविशारदौधर्म–विशारद (१.२)
अङ्गदश्चन्द्रकेतुश्चअङ्गद (१.१)–चन्द्रकेतु (१.१)–च (अव्ययः)
राज्यार्हौराज्य–अर्ह (१.२)
दृढधन्विनौदृढ–धन्विन् (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मौकु मा रौ सौ मि त्रे
र्मवि शा दौ
ङ्ग श्चन्द्र के तुश्च
रा ज्या र्हौदृन्वि नौ