७.९३.१०

पृष्टश्च कुशलं तेन रामेण वदतां वरः ।
आसने काञ्चने दिव्ये निषसाद महायशाः ॥

M N Dutt

Being asked by Rāma as to his welfare, that foremost of ascetics, skilled in the are of speech, sat on a golden seat.

पदच्छेदः

पृष्टश्चपृष्ट (√प्रच्छ् + क्त, १.१)–च (अव्ययः)
कुशलंकुशल (२.१)
तेनतद् (३.१)
रामेणराम (३.१)
वदतांवदत् (√वद् + शतृ, ६.३)
वरःवर (१.१)
आसनेआसन (७.१)
काञ्चनेकाञ्चन (७.१)
दिव्येदिव्य (७.१)
निषसादनिषसाद (√नि-सद् लिट् प्र.पु. एक.)
महायशाःमहत्–यशस् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पृ ष्टश्चकु लं ते
रा मे तां रः
ने काञ्च ने दि व्ये
नि सा हा शाः