७.९७.२०

अभिषिच्य तु तौ वीरौ प्रस्थाप्य स्वपुरे तथा ।
दूतान्संप्रेषयामास शत्रुघ्नाय महात्मने ॥

पदच्छेदः

अभिषिच्यअभिषिच्य (√अभि-सिच् + ल्यप्)
तुतु (अव्ययः)
तौतद् (२.२)
वीरौवीर (२.२)
प्रस्थाप्यप्रस्थाप्य (√प्र-स्थापय् + ल्यप्)
स्वपुरेस्व–पुर (७.१)
तथातथा (अव्ययः)
दूतान्दूत (२.३)
संप्रेषयामाससंप्रेषयामास (√संप्र-इषय् प्र.पु. एक.)
शत्रुघ्नायशत्रुघ्न (४.१)
महात्मनेमहात्मन् (४.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भि षिच्यतु तौ वी रौ
प्र स्था प्यस्वपु रे था
दू ता न्सं प्रे या मा
त्रु घ्ना हात्म ने