७.९८.१०

द्विधाकृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ।
धनधान्यसमायुक्तौ स्थापयामास पार्थिवौ ॥

पदच्छेदः

द्विधाकृत्वाद्विधा (अव्ययः)–कृत्वा (√कृ + क्त्वा)
तुतु (अव्ययः)
तांतद् (२.१)
सेनांसेना (२.१)
माधुरींमाधुर (२.१)
पुत्रयोर्पुत्र (६.२)
द्वयोःद्वि (६.२)
धनधान्यसमायुक्तौधन–धान्य–समायुक्त (√समा-युज् + क्त, २.२)
स्थापयामासस्थापयामास (√स्थापय् प्र.पु. एक.)
पार्थिवौपार्थिव (२.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्वि धा कृ त्वातु तां से नां
माधु रीं पुत्र योर्द्व योः
धान्य मा यु क्तौ
स्था या मा पार्थि वौ