७.९८.९

ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः ।
सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ॥

पदच्छेदः

ततःततस् (अव्ययः)
पुत्रद्वयंपुत्र–द्वय (२.१)
वीरःवीर (१.१)
सोतद् (१.१)
ऽभ्यषिञ्चन्नराधिपःअभ्यषिञ्चत् (√अभि-सिच् लङ् प्र.पु. एक.)–नराधिप (१.१)
सुबाहुर्सुबाहु (१.१)
मधुरांमधुरा (२.१)
लेभेलेभे (√लभ् लिट् प्र.पु. एक.)
शत्रुघातीशत्रुघातिन् (१.१)
(अव्ययः)
वैदिशम्वैदिश (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः पु त्रद्व यं वी रः
सोऽभ्य षि ञ्चन्न राधि पः
सु बा हुर्मधु रां ले भे
त्रु घा ती वैदि शम्