७.९८.१२

स ददर्श महात्मानं ज्वलन्तमिव पावकम् ।
क्षौमसूक्ष्माम्बरधरं मुनिभिः सार्धमक्षयैः ॥

पदच्छेदः

तद् (१.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
महात्मानंमहात्मन् (२.१)
ज्वलन्तम्ज्वलत् (√ज्वल् + शतृ, २.१)
इवइव (अव्ययः)
पावकम्पावक (२.१)
क्षौमसूक्ष्माम्बरधरंक्षौम–सूक्ष्म–अम्बर–धर (२.१)
मुनिभिःमुनि (३.३)
सार्धम्सार्धम् (अव्ययः)
अक्षयैःअक्षय (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्श हा त्मा नं
ज्वन्तमि पा कम्
क्षौ सू क्ष्माम्ब रं
मुनि भिः सार्धक्ष यैः