७.९८.१५

न चान्यदत्र वक्तव्यं दुस्तरं तव शासनम् ।
त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः ॥

पदच्छेदः

(अव्ययः)
चान्यद् (अव्ययः)–अन्य (१.१)
अत्रअत्र (अव्ययः)
वक्तव्यंवक्तव्य (√वच् + कृत्, १.१)
दुस्तरंदुस्तर (१.१)
तवत्वद् (६.१)
शासनम्शासन (१.१)
त्यक्तुंत्यक्तुम् (√त्यज् + तुमुन्)
नार्हसि (अव्ययः)–अर्हसि (√अर्ह् लट् म.पु. )
मांमद् (२.१)
वीरवीर (८.१)
भक्तिमन्तंभक्तिमत् (२.१)
विशेषतःविशेषतः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चान्यत्र क्त व्यं
दुस्त रं शा नम्
त्य क्तुं नार्हसि मां वी
क्ति न्तंवि शे तः