७.९८.१४

कृत्वाभिषेकं सुतयोर्युक्तं राघवयोर्धनैः ।
तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥

पदच्छेदः

कृत्वाभिषेकंकृत्वा (√कृ + क्त्वा)–अभिषेक (२.१)
सुतयोर्सुत (६.२)
युक्तंयुक्त (२.१)
राघवयोर्राघव (६.२)
धनैःधन (३.३)
तवानुगमनेत्वद् (६.१)–अनुगमन (७.१)
राजन्राजन् (८.१)
विद्धिविद्धि (√विद् लोट् म.पु. )
मांमद् (२.१)
कृतनिश्चयम्कृत (√कृ + क्त)–निश्चय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कृ त्वाभि षे कंसु यो
र्यु क्तं रा योर्ध नैः
वानु ने रा
न्विद्धि मांकृ निश्च यम्