७.९८.२०

यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ ।
यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ॥

पदच्छेदः

यदियदि (अव्ययः)
रामराम (८.१)
विनास्माभिर्विना (अव्ययः)–मद् (३.३)
गच्छेस्त्वंगच्छेः (√गम् विधिलिङ् म.पु. )–त्वद् (१.१)
पुरुषर्षभपुरुष–ऋषभ (८.१)
यमदण्डम्यम–दण्ड (२.१)
इवोद्यम्यइव (अव्ययः)–उद्यम्य (√उत्-यम् + ल्यप्)
त्वयात्वद् (३.१)
स्मस्म (अव्ययः)
विनिपातिताःविनिपातित (√विनि-पातय् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि रावि ना स्माभि
र्ग च्छे स्त्वंपुरुर्ष
ण्डमि वो द्यम्य
त्व यास्मविनि पाति ताः