७.९८.१९

ते राममभिवाद्याहुः सर्व एव समागताः ।
तवानुगमने राजन्संप्राप्ताः स्म महायशः ॥

पदच्छेदः

तेतद् (१.३)
रामम्राम (२.१)
अभिवाद्याहुःअभिवाद्य (√अभि-वादय् + ल्यप्)–आहुः (√अह् लिट् प्र.पु. बहु.)
सर्वसर्व (१.३)
एवएव (अव्ययः)
समागताःसमागत (√समा-गम् + क्त, १.३)
तवानुगमनेत्वद् (६.१)–अनुगमन (७.१)
राजन्राजन् (८.१)
सम्प्राप्ताःसम्प्राप्त (√सम्प्र-आप् + क्त, १.३)
स्मस्म (अव्ययः)
महायशःमहत्–यशस् (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते राभि वा द्या हुः
र्व मा ताः
वानु ने रा
न्सं प्रा प्ताःस्म हा शः