७.९८.२४

तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् ।
जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ॥

पदच्छेदः

तम्तद् (२.१)
एवम्एवम् (अव्ययः)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
काकुत्स्थोकाकुत्स्थ (१.१)
हनूमन्तम्हनुमन्त् (२.१)
अथाब्रवीत्अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
जीवितेजीवित (७.१)
कृतबुद्धिस्त्वंकृत (√कृ + क्त)–बुद्धि (१.१)–त्वद् (१.१)
मामा (अव्ययः)
प्रतिज्ञांप्रतिज्ञा (२.१)
विलोपयविलोपय (√वि-लोपय् लोट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मे मु क्त्वा का कु त्स्थो
नून्त थाब्र वीत्
जीवि तेकृ बु द्धि स्त्वं
माप्र ति ज्ञांवि लो