७.९८.२५

मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर ।
तावत्त्वं धारयन्प्राणान्प्रतिज्ञामनुपालय ॥

पदच्छेदः

मत्कथाःमद्–कथा (१.३)
प्रचरिष्यन्तिप्रचरिष्यन्ति (√प्र-चर् लृट् प्र.पु. बहु.)
यावल्लोकेयावत् (अव्ययः)–लोक (७.१)
हरीश्वरहरि–ईश्वर (८.१)
तावत्तावत् (अव्ययः)
त्वंत्वद् (१.१)
धारयन्धारयत् (√धारय् + शतृ, १.१)
प्राणान्प्राण (२.३)
प्रतिज्ञाम्प्रतिज्ञा (२.१)
अनुपालयअनुपालय (√अनु-पालय् लोट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्क थाःप्र रि ष्यन्ति
या ल्लो के रीश्व
ता त्त्वं धा न्प्रा णा
न्प्र ति ज्ञानु पा