७.९८.६

एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने ।
विरेमुस्ते ततो दूतास्त्वर राजन्निति ब्रुवन् ॥

पदच्छेदः

एवंएवम् (अव्ययः)
सर्वंसर्व (२.१)
निवेद्याशुनिवेद्य (√नि-वेदय् + ल्यप्)–आशु (अव्ययः)
शत्रुघ्नायशत्रुघ्न (४.१)
महात्मनेमहात्मन् (४.१)
विरेमुस्तेविरेमुः (√वि-रम् लिट् प्र.पु. बहु.)–तद् (१.३)
ततोततस् (अव्ययः)
दूतास्त्वरदूत (१.३)–त्वर (√त्वर् लोट् म.पु. )
राजन्न्राजन् (८.१)
इतिइति (अव्ययः)
ब्रुवन्ब्रुवन् (√ब्रू लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं र्वंनि वे द्याशु
त्रु घ्ना हात्म ने
वि रे मु स्ते तो दू ता
स्त्व रान्नि तिब्रु वन्