७.९८.५

श्राविता च पुरी रम्या श्रावतीति लवस्य च ।
अयोध्यां विजनां चैव भरतं राघवानुगम् ॥

पदच्छेदः

श्राविताश्रावित (√श्रावय् + क्त, १.१)
(अव्ययः)
पुरीपुरी (१.१)
रम्यारम्य (१.१)
श्रावतीतिश्रावती (१.१)–इति (अव्ययः)
लवस्यलव (६.१)
(अव्ययः)
अयोध्यांअयोध्या (२.१)
विजनांविजन (२.१)
चैव (अव्ययः)–एव (अव्ययः)
भरतंभरत (२.१)
राघवानुगम्राघव–अनुग (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रावि तापु री म्या
श्रा तीतिस्य
यो ध्यांवि नां चै
तं रा वानु गम्