१.१००
स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चन्दनैरिन्धनौघैः सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधामर्क-मूलस्य हेतोः ।
कृत्वा कर्पूर-खण्डान्वृत्तिमिह कुरुते कोद्रवाणां समन्तात्प्राप्येमां कर्म्-भूमिं न चरति मनुजो यस्तोप मन्द-भाग्यः ॥
पदच्छेदः
स्थाल्यांस्थाली (७.१)
वैदूर्यमय्यांवैडूर्य–मय (७.१)
पचतिपचति (√पच् लट् प्र.पु. एक.)
तिलकणांश्तिल–कण (२.३)
चन्दनैर्चन्दन (३.३)
इन्धनौघैःइन्धन–ओघ (३.३)
सौवर्णैर्सौवर्ण (३.३)
लाङ्गलाग्रैर्लाङ्गल–अग्र (३.३)
विलिखतिविलिखति (√वि-लिख् लट् प्र.पु. एक.)
वसुधाम्वसुधा (२.१)
अर्कमूलस्यअर्क–मूल (६.१)
हेतोःहेतु (५.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
कर्पूरखण्डान्कर्पूर–खण्ड (२.३)
वृत्तिम्वृत्ति (२.१)
इहइह (अव्ययः)
कुरुतेकुरुते (√कृ लट् प्र.पु. एक.)
कोद्रवाणांकोद्रव (६.३)
समन्तात्प्राप्येमांसमन्तात् (अव्ययः)–प्राप्य (√प्र-आप् + ल्यप्)–इदम् (२.१)
कर्मभूमिंकर्मन्–भूमि (२.१)
(अव्ययः)
चरतिचरति (√चर् लट् प्र.पु. एक.)
मनुजोमनुज (१.१)
यस्यद् (१.१)
मन्दभाग्यःमन्दभाग्य (१.१)
छन्दः स्रग्धरा [२१: मरभनययय]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९२०२१२२२३
स्था ल्यां वै दूर्य य्यांतिति णां श्चन्द नै रिन्ध नौ घैः
सौ र्णै र्लाङ्ग ला ग्रैर्विलितिसु धार्क मूस्य हे तोः
कृ त्वा र्पू ण्डा न्वृत्तिमिकुरु ते कोद्र वा णां
न्ता त्प्रा प्ये मां र्म्भू मिंतिनु जो स्तोन्द भा ग्यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.