२.३१
संसारेऽस्मिन्नसारे कुनृपति-भवन-द्वार-सेवा-कलङ्कव्यासङ्ग- व्यस्त-धैर्यं कथममल-धियो मानसं संविदध्युः ।
यद्येताः प्रोद्यद्-इन्दु-द्युति-निचय-भृतो न स्युरम्भोज-नेत्राः प्रेङ्खत्-काञ्ची-कलापाः स्तन-भर-विनमन्-मध्य-भाजस्तरुण्यः ॥
पदच्छेदः
संसारेसंसार (७.१)
ऽस्मिन्न्इदम् (७.१)
असारेअसार (७.१)
कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्गव्यस्तधैर्यंकु (अव्ययः)–नृपति–भवन–द्वार–सेवा–कलङ्क–व्यासङ्ग–व्यस्त (√वि-अस् + क्त)–धैर्य (२.१)
कथम्कथम् (अव्ययः)
अमलधियोअमल–धी (१.३)
मानसंमानस (२.१)
संविदध्युःसंविदध्युः (√संवि-धा विधिलिङ् प्र.पु. बहु.)
यद्य्यदि (अव्ययः)
एताःएतद् (१.३)
प्रोद्यदिन्दुद्युतिनिचयभृतोप्रोद्यत् (√प्रोत्-इ + शतृ)–इन्दु–द्युति–निचय–भृत् (१.३)
(अव्ययः)
स्युर्स्युः (√अस् विधिलिङ् प्र.पु. बहु.)
अम्भोजनेत्राःअम्भोज–नेत्र (१.३)
प्रेङ्खत्काञ्चीकलापाःप्रेङ्खत् (√प्रेङ्ख् + शतृ)–काञ्ची–कलाप (१.३)
स्तनभरविनमन्मध्यभाजस्स्तन–भर–विनमत् (√वि-नम् + शतृ)–मध्य–भाज् (१.३)
तरुण्यःतरुण (१.३)
छन्दः स्रग्धरा [२१: मरभनययय]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९२०२१
सं सा रे ऽस्मिन्न सा रेकुनृति द्वा से वाङ्क
व्या ङ्ग व्यस्त धै र्यंधि यो मा सं संवि ध्युः
द्ये ताः प्रोद्य दि न्दुद्युतिनिभृ तोस्यु म्भो ने त्राः
प्रे ङ्ख त्का ञ्ची ला पाःस्तवि न्मध्य भास्त रु ण्यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.