२.९९
चुम्बन्तो गण्ड-भित्तीरलकवति मुखे सीत्कृतान्यादधाना वक्षः-सूत्कञ्चुकेषु स्तन-भर-पुलकोद्भेदमापादयन्तः ।
ऊरू-नाकम्पयन्तः पृथु-जघन-तटात्स्रंसयन्तोऽंशुकानि व्यक्तं कान्ता-जनानां विट-चरित-भृतः शैशिरा वान्ति वाताः ॥
पदच्छेदः
चुम्बन्तोचुम्बत् (√चुम्ब् + शतृ, १.३)
गण्डभित्तीर्गण्ड–भित्ति (२.३)
अलकवतिअलकवत् (७.१)
मुखेमुख (७.१)
सीत्कृतान्यादधानासीत्कृत (√शीत्-कृ + क्त, २.३)–आदधान (√आ-धा + शानच्, १.३)
वक्षःसूत्कञ्चुकेषुवक्षस् (७.३)–उत्कञ्चुक (७.३)
स्तनभरपुलकोद्भेदम्स्तन–भर–पुलक–उद्भेद (२.१)
आपादयन्तःआपादयत् (√आ-पादय् + शतृ, १.३)
ऊरूनाकम्पयन्तःऊरु (२.३)–आकम्पयत् (√आ-कम्पय् + शतृ, १.३)
पृथुजघनतटात्पृथु–जघन–तट (५.१)
स्रंसयन्तोस्रंसयत् (√स्रंसय् + शतृ, १.३)
ऽंशुकानिअंशुक (२.३)
व्यक्तंव्यक्त (२.१)
कान्ताजनानांकान्ता–जन (६.३)
विटचरितभृतःविट–चरित (√चर् + क्त)–भृत् (१.३)
शैशिराशैशिर (१.३)
वान्तिवान्ति (√वा लट् प्र.पु. बहु.)
वाताःवात (१.३)
छन्दः स्रग्धरा [२१: मरभनययय]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९२०२१२२
चु म्ब न्तोण्ड भि त्तीतिमु खे सीत्कृ ता न्या धा ना
क्षः सू त्कञ्चु के षुस्तपु को द्भे मा पा न्तः
रू नाम्प न्तःपृथु टा त्स्रं न्तो ऽंशु कानि
व्य क्तं का न्ता ना नांविरिभृ तः शैशि रा वान्ति वा ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.