३.१४
धन्यानां गिरि-कन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रु- जलं पिबन्ति शकुना निःशङ्कमङ्केशयाः ।
अस्माकं तु मनोरथोपरचित-प्रासाद-वापी-तटक्रीडा- कानन-केलि-कौतुक-जुषामायुः परं क्षीयते ॥
पदच्छेदः
धन्यानांधन्य (६.३)
गिरिकन्दरेषुगिरि–कन्दर (७.३)
वसतांवसत् (√वस् + शतृ, ६.३)
ज्योतिःज्योतिस् (२.१)
परंपर (२.१)
ध्यायतामानन्दाश्रुध्यायत् (√ध्या + शतृ, ६.३)–आनन्द–अश्रु (२.१)
जलंजल (२.१)
पिबन्तिपिबन्ति (√पा लट् प्र.पु. बहु.)
शकुनाशकुन (१.३)
निःशङ्कम्निःशङ्क (२.१)
अङ्केशयाःअङ्केशय (१.३)
अस्माकंमद् (६.३)
तुतु (अव्ययः)
मनोरथोपरचितप्रासादवापीतटक्रीडाकाननकेलिकौतुकजुषाम्मनोरथ–उपरचित (√उप-रचय् + क्त)–प्रासाद–वापी–तट–क्रीडा–कानन–केलि–कौतुक–जुष् (६.३)
आयुःआयुस् (१.१)
परंपर (१.१)
क्षीयतेक्षीयते (√क्षि प्र.पु. एक.)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
न्या नांगिरिन्द रेषु तां ज्यो तिः रं ध्या ता
मा न्दाश्रु लंपिन्तिकु ना निःङ्क ङ्के याः
स्मा कंतु नो थोचि प्रा सा वा पी
क्री डा का केलि कौतुजु षा मा युः रं क्षी ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.