३.४९
आयुर्वर्ष-शतं नॄणां परिमितं रात्रौ तद्-अर्धं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्व-वृद्धत्वयोः ।
शेषं व्याधि-वियोग-दुःख-सहितं सेवादिभिर्नीयते जीवे वारित-रङ्ग-चञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥
पदच्छेदः
आयुर्आयुस् (१.१)
वर्षशतंवर्ष–शत (१.१)
नॄणांनृ (६.३)
परिमितंपरिमित (√परि-मा + क्त, १.१)
रात्रौरात्रि (७.१)
तदर्धंतद्–अर्ध (१.१)
गतंगत (√गम् + क्त, १.१)
तस्यार्धस्यतद् (६.१)–अर्ध (६.१)
परस्यपर (६.१)
चार्धम् (अव्ययः)–अर्ध (१.१)
अपरंअपर (१.१)
बालत्ववृद्धत्वयोःबाल–त्व–वृद्ध–त्व (७.२)
शेषंशेष (१.१)
व्याधिवियोगदुःखसहितंव्याधि–वियोग–दुःख–सहित (१.१)
सेवादिभिर्सेवा–आदि (३.३)
नीयतेनीयते (√नी प्र.पु. एक.)
जीवेजीव (७.१)
वारितरङ्गचञ्चलतरेवारि–तरंग–चञ्चलतर (७.१)
सौख्यंसौख्य (१.१)
कुतःकुतस् (अव्ययः)
प्राणिनाम्प्राणिन् (६.३)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
यु र्वर्ष तं नॄ णांरिमि तं रा त्रौ र्धं तं
स्या र्धस्यस्य चार्ध रं बात्व वृ द्धत्व योः
शे षं व्याधिवि यो दुःहि तं से वादि भि र्नी ते
जी वे वारिङ्गञ्च रे सौ ख्यंकु तः प्राणि नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.