३.५
अमीषां प्राणानां तुलित-विसिनी-पत्र-पयसां कृते किं नास्माभिर्विगलित-विवेकैर्व्यवसितम् ।
यद्-आढ्यानामग्रे द्रविण-मद-निःसंज्ञ-मनसां कृतं माव-व्रीडैर्निज-गुण-कथा-पातकमपि ॥
पदच्छेदः
अमीषांअदस् (६.३)
प्राणानांप्राण (६.३)
कृतेकृते (अव्ययः)
किंकिम् (अव्ययः)
नास्माभिर् (अव्ययः)–मद् (३.३)
विगलितविवेकैर्विगलित (√वि-गल् + क्त)–विवेक (३.३)
व्यवसितम्व्यवसित (√व्यव-सा + क्त, १.१)
यदाढ्यानाम्यद् (१.१)–आढ्य (६.३)
अग्रेअग्र (७.१)
द्रविणमदनिःसंज्ञमनसांद्रविण–मद–निःसंज्ञ–मनस् (६.३)
कृतंकृत (√कृ + क्त, १.१)
मावव्रीडैर्मा (अव्ययः)–अवव्रीड (३.३)
निजगुणकथापातकम्निज–गुण–कथा–पातक (१.१)
अपिअपि (अव्ययः)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
मी षां प्रा णा नांतुलिविसि नीत्र सां
कृ ते किं ना स्मा भिर्विलिवि वे कैर्व्यसि तम्
दा ढ्या ना ग्रेद्रवि निः संज्ञ सां
कृ तं मा व्री डैर्निगु था पापि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.