३.६
क्षान्तं न क्षमया गृहोचित-सुखं त्यक्तं न सन्तोषतः सोढो दुःसह-शीत-ताप-पवन-क्लेशो न तप्तं तपः ।
ध्यातं वित्तमहर्-निशं नित्यमित-प्राणैर्न शम्भोः पदं तत्-तत्-कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥
पदच्छेदः
क्षान्तंक्षान्त (√क्षम् + क्त, १.१)
(अव्ययः)
क्षमयाक्षमा (३.१)
गृहोचितसुखंगृह–उचित–सुख (१.१)
त्यक्तंत्यक्त (√त्यज् + क्त, १.१)
(अव्ययः)
सन्तोषतःसंतोष (५.१)
सोढोसोढ (√सह् + क्त, १.१)
दुःसहशीततापपवनक्लेशोदुःसह–शीत–ताप–पवन–क्लेश (१.१)
(अव्ययः)
तप्तंतप्त (√तप् + क्त, १.१)
तपःतपस् (१.१)
ध्यातंध्यात (√ध्या + क्त, १.१)
वित्तम्वित्त (१.१)
अहर्निशंअहर्निश (२.१)
नित्यमितप्राणैर्नित्य–मित (√मा + क्त)–प्राण (३.३)
(अव्ययः)
शम्भोःशम्भु (६.१)
पदंपद (१.१)
तत्तत्कर्मतद् (१.१)–तद् (१.१)–कर्मन् (१.१)
कृतंकृत (√कृ + क्त, १.१)
यद्यत् (अव्ययः)
एवएव (अव्ययः)
मुनिभिस्मुनि (३.३)
तैस्तद् (३.३)
तैःतद् (३.३)
फलैर्फल (३.३)
वञ्चिताःवञ्चित (√वञ्चय् + क्त, १.३)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
क्षा न्तंक्ष यागृ होचिसु खं त्य क्तं न्तो तः
सो ढो दुः शी ता क्ले शो प्तं पः
ध्या तं वित्तर्नि शं नित्यमि प्रा णैर्न म्भोः दं
त्त त्कर्मकृ तं देमुनि भि स्तै स्तैः लै र्वञ्चि ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.