दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालिता दैवाद् अद्य किल त्वमेव कृतवान् अस्या नवं विप्रियम् ।
मन्युर्दुःसह एष यात्युपशमं नो सान्त्ववादैः स्फुटं हे निस्त्रंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥
पदच्छेदः
दत्तोऽस्याःदत्त (√दा + क्त, १.१)–इदम् (६.१)
प्रणयस्त्वयैवप्रणय (१.१)–त्वद् (३.१)–एव (अव्ययः)
भवताभवत् (३.१)
चेयं (अव्ययः)–इदम् (१.१)
चिरंचिरम् (अव्ययः)
लालितालालित (√लालय् + क्त, १.१)
दैवाद्दैव (५.१)
अद्यअद्य (अव्ययः)
किलकिल (अव्ययः)
त्वमेवत्वद् (१.१)–एव (अव्ययः)
कृतवान्कृतवत् (√कृ + क्तवतु, १.१)
अस्याइदम् (६.१)
नवंनव (२.१)
विप्रियम्विप्रिय (२.१)
मन्युर्दुःसहमन्यु (१.१)–दुःसह (१.१)
एषएतद् (१.१)
यात्युपशमंयाति (√या लट् प्र.पु. एक.)–उपशम (२.१)
नोनो (अव्ययः)
सान्त्ववादैःसान्त्व–वाद (१.३)
स्फुटंस्फुट (१.१)
हेहे (अव्ययः)
निस्त्रंशनिस्त्रंश (८.१)
विमुक्तकण्ठकरुणंविमुक्त (√वि-मुच् + क्त)–कण्ठ–करुण (१.१)
तावत्सखीतावत् (अव्ययः)–सखी (१.१)
रोदितुरोदितु (√रुद् लोट् प्र.पु. एक.)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
त्तो ऽस्याःप्रस्त्व यै ता चे यंचि रं लालि ता
दै वाद्यकित्व मेकृ वा स्या वं विप्रि यम्
न्यु र्दुः यात्यु मं नो सान्त्व वा दैःस्फु टं
हे नि स्त्रंवि मुक्तण्ठरु णं तात्स खी रोदितु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.