१०
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्तोयगृध्नुः ।
गर्भाधानस्थिरपरिचया नूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥
वल्लभदेवः यथेदं शुभमीक्ष्यते तथा निश्चितं मे च मुन्दरं त्वामाकाशे बलाकाः सेविष्यन्ते श्रयिष्यन्ते । किमितीत्याह । हितो वातो यथा त्वां मन्दं मन्दं प्रेरयति यथा चायं चातको मयूरो मधुरं कूजति । वामो वामपार्श्वस्थो वल्गुवादी वा। तोयगृधुर्जलमभिलाषुकः । वार्षिकलिङ्गदर्शनाद्बलाका अप्यायास्यन्तीति प्रावृड्धर्मोऽयम् । कीदृक्ष्यस्ताः । गर्भाधानेन स्थिरः परिचयो यासां ताः । मेघगर्जितेन हि ताः सगर्भा भवन्तीति वार्त्ता । आबद्धमाला रचितपङ्क्त्यः । मन्दं मन्दमित्याधिक्ये द्वित्वम् ॥
पदच्छेदः
मन्दंमन्द (२.१)
मन्दंमन्द (२.१)
नुदतिनुदति (√नुद् लट् प्र.पु. एक.)
पवनश्चानुकूलोपवन (१.१)–च (अव्ययः)–अनुकूल (१.१)
यथायथा (अव्ययः)
त्वांत्वद् (२.१)
वामश्चायंवाम (१.१)–च (अव्ययः)–इदम् (१.१)
नदतिनदति (√नद् लट् प्र.पु. एक.)
मधुरंमधुर (२.१)
चातकस्तेचातक (१.१)–त्वद् (६.१)
सगन्धःसगन्ध (१.१)
गर्भाधानक्षणपरिचयान्गर्भाधान–क्षण–परिचय (५.१)
नूनम्नूनम् (अव्ययः)
आबद्धमालाःआबद्ध (√आ-बन्ध् + क्त)–माला (१.३)
सेविष्यन्तेसेविष्यन्ते (√सेव् लृट् प्र.पु. बहु.)
नयनसुभगंनयन–सुभग (२.१)
खे (७.१)
भवन्तंभवत् (२.१)
बलाकाःबलाका (१.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
न्दं न्दंनुति श्चानु कू लो था त्वां
वा श्चा यंतिधु रं चा स्तो गृ ध्नुः
र्भा धास्थिरि या नू माद्ध मा लाः
से वि ष्य न्तेसु गं खे न्तं ला काः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.