आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले भवति भवता यस्य संयोगमेत्य स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥
वल्लभदेवः अमुं शैलं चित्रकूटमालिङ्ग्यापृच्छस्व सोत्कण्ठं [अस्पष्टं मुद्रणम्]ज्योककुरु । यतः प्रियसखमिष्टमित्रम् । मेघानां ह्यद्रयः सुहृदः । ततस्तेषामुदयात् । सखा च गमनकाले ज्योक्क्रियते । कीदृशममुम् । तुङ्गमुन्नतम् । तथा सर्वजनपूज्यैः रामपदै रामपादैर्मेखलासु नितम्बभागेष्वङ्कितं मुद्रितमिति पावनत्वोक्तिः । सखिधर्ममाह | यस्याद्रेः काले काले सर्वस्मिन्समागमममये त्वया सह संयोगमेत्य चिरविरहजमुष्णं बाष्पमूष्माणं त्यजतः स्नेहव्यक्तिर्भवति । यः स्निह्यतीत्यर्थः । पर्वता हि जलदवृष्ट्या स्निग्धा भवन्ति वाष्पं च मुञ्चन्ति । एतदेव महत्त्वं यच्चिरेण सख्यौ दृष्टे बाष्पस्नेहौ जायेते । आपृच्छस्वेत्याङि नुप्रच्छ्योरित्यात्मनेपदम् । प्रियश्चासौ सखा चेति प्रियसखः । राजाहःसखिभ्यष्टच् । संयोगमेत्येति बाष्पमोक्षापेक्षं पौर्वकाख्यं स्नेहक्रियापेक्षं वा ॥
पदच्छेदः
आपृच्छस्वआपृच्छस्व (√आ-प्रच्छ् लोट् म.पु. )
प्रियसखम्प्रिय–सख (२.१)
अमुंअदस् (२.१)
तुङ्गम्तुङ्ग (२.१)
आलिङ्ग्यआलिङ्ग्य (√आ-लिङ्गय् + ल्यप्)
शैलंशैल (२.१)
वन्द्यैःवन्द्य (√वन्द् + कृत्, ३.३)
पुंसांपुंस् (६.३)
रघुपतिपदैरङ्कितंरघुपति–पद (३.३)–अङ्कित (√अङ्कय् + क्त, २.१)
मेखलासुमेखला (७.३)
कालेकाल (७.१)
कालेकाल (७.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
भवतोभवत् (६.१)
यस्ययद् (६.१)
संयोगमेत्यसंयोग (२.१)–एत्य (√आ-इ + ल्यप्)
स्नेहव्यक्तिश्चिरविरहजंस्नेह–व्यक्ति (१.१)–चिर–विरह–ज (२.१)
मुञ्चतोमुञ्चत् (√मुच् + शतृ, ६.१)
बाष्पमुष्णम्बाष्प (२.१)–उष्ण (२.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
पृ च्छ स्वप्रि मुं तुङ्ग मा लिङ्ग्य शै लं
न्द्यैः पुं सांघुति दैङ्कि तं मे लासु
का ले का लेति तास्य सं यो मेत्य
स्ने व्य क्तिश्चिवि जं मुञ्च तो बाष्प मु ष्णम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.