११
तां चावश्यं दिवसगणनातत्परामेकपत्नीमव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि ॥
वल्लभदेवः तां भ्रातृजायां मित्रभार्यां निश्चितमव्यापन्नाममृतामीक्षिष्यसे । कीदृशीम् । दिवसगणनातत्पराम् । कियान्कालो गतः । कियाञ्शेष इत्यधिगणनापरायणाम् । यत एकपत्नीं पतिव्रताम् । एकः पतिर्यस्याः सा ताम् । एवंविधां चेत्कथं तर्ह्यव्यापन्नामित्याह । यस्मान्नारीणां प्रियविरहे हृदयमाशावन्धः प्रायेण रुणद्ध्यवलम्बते । यतः कुमुमसदृशम् । अत एव सद्यःपातप्रणयि तत्क्षणविनाशोन्मुखम् । एवंविधमप्याशया धार्यते । नूनमस्माकं पुनः प्रियेण संयोगो भावीति । आशाबन्ध आशाबन्ध इव । यथाशाबन्धो जालकारकृततन्तुनिकरः कुसुममपि शुष्कं वातेरितं रुन्धे । चशब्दः पूर्ववाक्यापेक्षया समुच्चये । एवमन्यत्र । प्रणयः प्रीतिवन्मुखता । एकपत्नीमिति नित्यं सपत्न्यादिष्विति' ङीब्नकारौ । भातृजायाशब्दे ऋतो विद्यायोनिसंबन्धेभ्य इत्यनुगभावश्चिन्त्यः ॥
पदच्छेदः
त्वांत्वद् (२.१)
चावश्यं (अव्ययः)–अवश्यम् (अव्ययः)
दिवसगणनातत्पराम्दिवस–गणना–तत्पर (२.१)
एकपत्नीमव्यापन्नामविहतगतिर्द्रक्ष्यसिएकपत्नी (२.१)–अव्यापन्न (२.१)–अविहत–गति (१.१)–द्रक्ष्यसि (√दृश् लृट् म.पु. )
भ्रातृजायाम्भ्रातृ–जाया (२.१)
आशाबन्धःआशाबन्ध (१.१)
कुसुमसदृशंकुसुम–सदृश (१.१)
प्रायशोप्रायशस् (अव्ययः)
ह्यङ्गनानांहि (अव्ययः)–अङ्गना (६.३)
सद्यःसद्यस् (अव्ययः)
पातिपाति (√पा लट् प्र.पु. एक.)
प्रणयिप्रणयिन् (२.१)
हृदयंहृदय (२.१)
विप्रयोगेविप्रयोग (७.१)
रुणद्धिरुणद्धि (√रुध् लट् प्र.पु. एक.)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
तां चा श्यंदि नात्प रा मे त्नी
व्या न्नावि ति र्द्रक्ष्य सि भ्रातृ जा याम्
शा न्धःकुसुदृ शं प्रा शो ह्यङ्ग ना नां
द्यः पाप्रयिहृ यं विप्र यो गेरुद्धि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.