१२
कर्तुं यच्च प्रभवति महीमुच्छिलिन्ध्रामवन्ध्यं तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।
आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥
वल्लभदेवः तत्त्वदीयं ध्वनितमाकर्ण्य तव राजहंमा अनुचराः कैलासाद्रिपर्यन्तं भविष्यन्ति । यतो मानमोत्का मानमोत्काः मानसोन्मनसः । प्रावृषि हि ते शरणार्थं तत्र यान्ति । किं तद्गर्जितमित्याह । यन्महीमवनिमुच्छिलिन्ध्रामुद्भूतशिलिन्ध्राख्यकुमुमां विधातुं प्रभवति शक्नोति । तानि हि मेघगर्जितेन जायन्ते । अत एव तदवन्ध्यं सफलम् । श्रवणसुभगं कर्णसुखकारीति चाटुपदम् । कीदृशा हंसाः । बिसानां किसलयानि तेषां छेदः खण्डः स एव पाथेयमध्वभोजनं विद्यते येषां ते तथोक्ताः । बिसकिसलयच्छेदपाथेयवन्त इति विग्रहः । आ कैलासादित्यव्ययीभावो विभाषितः ॥
पदच्छेदः
कर्तुंकर्तुम् (√कृ + तुमुन्)
यच्चयद् (१.१)–च (अव्ययः)
प्रभवतिप्रभवति (√प्र-भू लट् प्र.पु. एक.)
महीम्मही (२.१)
उच्छिलीन्ध्राम्उच्छिलीन्ध्र (२.१)
अवन्ध्यांअवन्ध्य (२.१)
तच्छ्रुत्वातद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)
तेतद् (१.३)
श्रवणसुभगंश्रवण–सुभग (२.१)
गर्जितंगर्जित (२.१)
मानसोत्काःमानस–उत्क (१.३)
कैलासाद्बिसकिसलयच्छेदपाथेयवन्तःकैलास (५.१)–बिस–किसलय–छेद–पाथेयवत् (१.३)
सम्पत्स्यन्तेसम्पत्स्यन्ते (√सम्-पद् लृट् प्र.पु. बहु.)
नभसिनभस् (७.१)
भवतोभवत् (६.१)
राजहंसाःराजहंस (१.३)
सहायाःसहाय (१.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
र्तुं च्चप्रति ही मुच्छि लि न्ध्रा न्ध्यं
च्छ्रु त्वा तेश्रसु गंर्जि तं मा सो त्काः
कै ला साद्बिकि च्छे पा थे न्तः
सं त्स्य न्तेसि तो रा हं साः हा याः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.