१३
मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुकूलं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥
वल्लभदेवः हे जलद मम गदतोऽध्वानं तावद्भवद्गमनहितमाकर्णय । तदनन्तरं श्रोत्रपेयं कर्णानन्दनं संदेशं श्रोष्यसि निशमयिष्यसि । कीदृशं मार्गमित्यानुकूल्यमाह । खिन्नः खिन्न इति । श्रान्तः संस्त्वं यत्र मार्गेऽद्रिषु पदं न्यस्य क्रमं निक्षिप्य गन्तामि यास्यसि क्षीणप्रायश्च नदीनामगुरु तोयमुपयुज्येति पीत्वा शीघ्रं यास्यसि । पानविश्रामौ हि पथि सुतरामुपयुज्येते । तदनुतदुपरीत्यादयः पूर्वकविप्रयोगदर्शनात्साधवः । अव्ययेन हि षष्ठीममामो निषिध्यते । श्रोत्रपेयमिति कृत्यैरधिकार्थवचने । खिन्नः खिन्न इत्यादावाधिको द्वित्वमिति कर्मधारयवत्त्वात्सुब्लुप् भवति । आधिक्ये च द्वित्वमाहितमिति महत्या संज्ञया' ज्ञापितम् । गन्तासीति लुट् । परिलघ्विति क्रियाविशेषणम् ॥
पदच्छेदः
मार्गंमार्ग (२.१)
तावच्छृणुतावत् (अव्ययः)–शृणु (√श्रु लोट् म.पु. )
कथयतस्कथयत् (√कथय् + शतृ, ६.१)
त्वत्प्रयाणानुरूपंत्वद्–प्रयाण–अनुरूप (२.१)
संदेशंसंदेश (२.१)
मेमद् (६.१)
तदनुतदनु (अव्ययः)
जलदजलद (८.१)
श्रोष्यसिश्रोष्यसि (√श्रु लृट् म.पु. )
श्रोत्रपेयम्श्रोत्र–पेय (२.१)
खिन्नःखिन्न (√खिद् + क्त, १.१)
खिन्नःखिन्न (√खिद् + क्त, १.१)
शिखरिषुशिखरिन् (७.३)
पदंपद (२.१)
न्यस्यन्यस्य (√नि-अस् + ल्यप्)
गन्तासिगन्तासि (√गम् लुट् म.पु. )
यत्रयत्र (अव्ययः)
क्षीणःक्षीण (√क्षि + क्त, १.१)
क्षीणःक्षीण (√क्षि + क्त, १.१)
परिलघुपरिलघु (२.१)
पयःपयस् (२.१)
स्रोतसांस्रोतस् (६.३)
चोपभुज्य (अव्ययः)–उपभुज्य (√उप-भुज् + ल्यप्)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
मा र्गं ताच्छृणु स्त्वत्प्र या णानु कू लं
सं दे शं मेनु श्रोष्य सि श्रोत्र पे यम्
खि न्नः खि न्नःशिरिषु दं न्यस्य न्तासित्र
क्षी णः क्षी णःरिघु यः स्रो सां चो भुज्य
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.