१४
अद्रेः शृङ्गं हरति पवनः किं स्विदित्युन्मुखीभिर्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेहान् ॥
वल्लभदेवः अस्मात्प्रदेशात्त्वमुत्तराभिमुखः खमुद्गच्छ । सरसा निचुला वेतसा यत्रेति प्रावृड्वर्णनम् । त्वं कीदृशः । चकितचकितं सवासमुद्वक्ताभिर्मुग्धसिद्धवधूभिरित्थं दृष्टोत्साहो दृष्टोद्यमः । कथमित्याह । पवनो वायुः किं स्विदचलशिखरं हरत्यपनयति । अतश्च पातशङ्कया चकितत्वम् । अत एव मुग्धत्वम् । किं कुर्वन् । दिङ्गागानामाशाकरिणां पथि स्थूलहस्तावलेहान्महाकरग्रहान्वर्जयन् । ते हि तं प्रतिद्विरदभ्रान्या ग्रहीतुमिच्छन्ति । दिङ्नागाश्च पातालादारभ्य । यदाह । मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम्' । तथा । नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे' । चकितचकितमिति प्रकारे द्वित्वम् ॥
पदच्छेदः
अद्रेःअद्रि (६.१)
शृङ्गंशृङ्ग (२.१)
हरतिहरति (√हृ लट् प्र.पु. एक.)
पवनःपवन (१.१)
किंस्विद् (२.१)–स्विद् (अव्ययः)
इत्युन्मुखीभिर्इति (अव्ययः)–उन्मुख (३.३)
दृष्टोत्साहश्दृष्ट (√दृश् + क्त)–उत्साह (१.१)
चकितचकितंचकित (√चक् + क्त)–चकित (√चक् + क्त, २.१)
मुग्धसिद्धाङ्गनाभिःमुग्ध (√मुह् + क्त)–सिद्ध–अङ्गना (३.३)
स्थानाद्स्थान (५.१)
अस्मात्इदम् (५.१)
सरसनिचुलाद्सरस–निचुल (५.१)
उत्पतोदङ्मुखःउत्पत (√उत्-पत् लोट् म.पु. )–उदङ्मुख (१.१)
खं (२.१)
दिङ्नागानांदिङ्नाग (६.३)
पथिपथिन् (७.१)
परिहरन्परिहरत् (√परि-हृ + शतृ, १.१)
स्थूलहस्तावलेपान्स्थूल–हस्त–अवलेप (२.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
द्रेः शृ ङ्गंति नः किंस्वि दि त्युन्मु खीभि
र्दृ ष्टो त्साश्चकिकि तं मुग्ध सि द्धाङ्ग ना भिः
स्था ना स्मात्सनिचु ला दुत्प तोङ्मु खः खं
दि ङ्ना गा नांथिरि न्स्थू स्ता ले हान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.