१५
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद्वल्मीकाग्रात्प्रभवति धनुष्खण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥
वल्लभदेवः एतत्पुरस्तादग्रे वल्मीकाग्रात्पिपीलिकोत्खातमृत्कूटप्रान्तादाखण्डलस्येन्द्रस्य धनुष्खण्डं चापैकदेशः प्रभवत्युत्पद्यते । सर्पगर्भं वल्मीकमिति सुरचापम्य प्रावृषि प्रभव इत्यागमः । कीदृशं तत् । अनेकवर्णत्वाद्रत्नच्छायाव्यतिकर इव बहुविधमणिकान्तिसंपर्कवत्प्रेक्षणीयं रम्यम् । येन च तव कृष्णं शरीरमतितरां कान्तिमापत्स्यते । यथा वल्लवरूपस्य हरेः प्रसरत्कान्तिना पिञ्छेन वपुः कान्तिमाप्तवत् । गोपा हि प्रायेण शवरवन्मयूरपिञ्छधारिणः । प्रसङ्गाच्च वर्षावर्णनमपि कविना क्रियत इति मार्गोपदेशेऽपि नास्य श्लोकस्यानवमरः । व्यतिकरो मिश्रीभावः । धनुष्खण्ड इति नित्यं समाम इति षत्वम् ॥
पदच्छेदः
रत्नच्छायाव्यतिकररत्न–छाया–व्यतिकर (७.१)
इवइव (अव्ययः)
प्रेक्ष्यमेतत्पुरस्ताद्प्रेक्ष्य (√प्र-ईक्ष् + कृत्, १.१)–एतद् (१.१)–पुरस्तात् (अव्ययः)
वल्मीकाग्रात्वल्मीकाग्र (५.१)
प्रभवतिप्रभवति (√प्र-भू लट् प्र.पु. एक.)
धनुःखण्डम्धनुस्–खण्ड (१.१)
आखण्डलस्यआखण्डल (६.१)
येनयद् (३.१)
श्यामंश्याम (१.१)
वपुर्वपुस् (१.१)
अतितरांअतितराम् (अव्ययः)
कान्तिम्कान्ति (२.१)
आपत्स्यतेआपत्स्यते (√आ-पद् लृट् प्र.पु. एक.)
तेत्वद् (६.१)
बर्हेणेवबर्ह (३.१)–इव (अव्ययः)
स्फुरितरुचिनास्फुरित (√स्फुर् + क्त)–रुचि (३.१)
गोपवेषस्यगोप–वेष (६.१)
विष्णोःविष्णु (६.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
त्न च्छा याव्यति प्रेक्ष्य मेत्पु स्ता
द्व ल्मी का ग्रात्प्रति नु ष्खण्ड माण्डस्य
ये श्या मंपुति रां कान्ति मात्स्य ते ते
र्हे णेस्फुरिरुचि ना गो वेस्य वि ष्णोः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.