१६
त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किं चित्पश्चाद्प्रवलय गतिं भूय एवोत्तरेण ॥
वल्लभदेवः मालमुड्डारं" क्षेत्रं किंचिन्मनागारुह्य पश्चादनन्तरमुत्तरेणोत्तरस्यां दिशि भूयो बहुतरं गतिं प्रवलय व्यावर्तय । मालं हि दक्षिणाशास्थं तेन चोत्तरागा गन्तव्येति गतिप्रवलनम् । मालारोहणं वृष्ट्या वधूप्रीत्यर्थम् । मालेन हि तदुपरिभवमाकाशं लक्ष्यते । कीदृशस्त्वम् । वृष्टिदानात्त्वय्यायत्तं कृषिफलमित्यतो हेतोर्जनपदवधूलोचनैः पीयमानः साभिलाषं दृश्यमानः । कीदृशीः । ग्राम्यत्वादभ्रूविलासानभिज्ञैः । अत एव प्रीतिवशात्स्निग्धैररूक्षैः । कीदृशं मालम् । सद्यस्तत्क्षणं सीरेण हलेन यदुत्कषणं विलेखनं तेन सुरभि मुगन्धि । हलोत्कृष्टा हि भूर्जलदजलकणव्यतिकरात्सुरभिर्भवति । प्रवलनं स्फिरणम् । उत्तरेणेत्येनबन्तः ॥
पदच्छेदः
त्वय्यायत्तंत्वद् (७.१)–आयत्त (√आ-यत् + क्त, १.१)
कृषिफलम्कृषि–फल (१.१)
इतिइति (अव्ययः)
भ्रूविकारान्भ्रू–विकार (२.३)
अभिज्ञैःअभिज्ञ (३.३)
प्रीतिस्निग्धैर्जनपदवधूलोचनैःप्रीति–स्निग्ध (३.३)–जनपद–वधू–लोचन (३.३)
पीयमानःपीयमान (√पा + शानच्, १.१)
सद्यःसद्यस् (अव्ययः)
सीरोत्कषणसुरभिसीर–उत्कषण–सुरभि (२.१)
क्षेत्रम्क्षेत्र (२.१)
आरुह्यआरुह्य (√आ-रुह् + ल्यप्)
मालंमाल (२.१)
किंचित्कश्चित् (२.१)
पश्चाद्पश्चात् (अव्ययः)
व्रजव्रज (√व्रज् लोट् म.पु. )
लघुगतिर्लघु–गति (१.१)
भूयभूयस् (अव्ययः)
एवोत्तरेणएव (अव्ययः)–उत्तरेण (अव्ययः)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
त्व य्या त्तंकृषिमि ति भ्रूवि ला सा भि ज्ञैः
प्री ति स्नि ग्धैर्ज धू लो नैः पी मा नः
द्यः सी रोत्कसु भि क्षेत्र मा रुह्य मा लं
किं चि त्प श्चाद्प्र तिं भू वोत्त रे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.