१७
त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥
वल्लभदेवः अध्वश्रमेण परिगतं व्याप्तं भवन्तं सानुमानद्रिराम्रकूटो मूर्ध्ना शृङ्गेण साधु मम्यग्वक्ष्यति धारयिष्यति । यत आसारेण प्रशमितवनोपप्लवस्त्वम् । त्वया ह्यस्य वेगवर्षेण दावाग्निर्निर्वापितः । किमित्येतावता शिरसा वहनमित्याह । न क्षुद्रोऽपीत्यादि । संश्रयाय वासार्थं सुहृद्यायाते सति क्षुद्रोऽपि दुर्जनोऽपि विमुखो न भवति । किं पुनर्यस्तथा तेन प्रकारेणोच्चैरुन्नतः । कुतः । प्रथमसुकृतापेक्षया । आदावेतेन मे महदुपकृतम् । इदानीमेतस्याहं प्रत्युपकरोमीति पूर्वोपकार प्रत्यालोचनया न पराङ्मुखीभावः । क्षुद्रः खलो ह्रस्वश्च । उच्चैः प्रांशुर्महामनाश्च । वक्ष्यतीति वहेरूपम् । सानुमान् पर्वतः । तथेत्यनेनोच्चैस्त्वस्य प्रसिद्धिमाह ॥
पदच्छेदः
त्वाम्त्वद् (२.१)
आसारप्रशमितवनोपप्लवंआसार–प्रशमित (√प्र-शमय् + क्त)–वन–उपप्लव (२.१)
साधुसाधु (२.१)
मूर्ध्नामूर्धन् (३.१)
वक्ष्यत्य्वक्ष्यति (√वच् लृट् प्र.पु. एक.)
अध्वश्रमपरिगतंअध्वन्–श्रम–परिगत (√परि-गम् + क्त, २.१)
सानुमान्सानुमत् (१.१)
आम्रकूटःआम्रकूट (१.१)
(अव्ययः)
क्षुद्रोक्षुद्र (१.१)
ऽपिअपि (अव्ययः)
प्रथमसुकृतापेक्षयाप्रथम–सुकृत–अपेक्षा (३.१)
संश्रयायसंश्रय (४.१)
प्राप्तेप्राप्त (√प्र-आप् + क्त, ७.१)
मित्रेमित्र (७.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
विमुखःविमुख (१.१)
किं (२.१)
पुनर्पुनर् (अव्ययः)
यस्यद् (१.१)
तथोच्चैःतथा (अव्ययः)–उच्चैस् (अव्ययः)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
त्वा मा साप्रमि नोप्ल वं साधु मू र्ध्ना
क्ष्य त्य ध्वश्ररि तं सानु मा नाम्र कू टः
क्षु द्रो ऽपिप्रसुकृ ता पेक्ष या संश्र या
प्रा प्ते मि त्रेतिविमु खः किंपु र्यस्त थो च्चैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.